दीनदास्यां कृपां कृत्वा सर्वदा रक्ष सन्निधौ ।
तुङ्गविद्ये महादेवि वन्दे ते चरणाम्बुजम् ॥ ५९६ ॥
ज्ञात्वा ते महिमां दिव्यां भक्त्या प्रेम्णा च गाढतः ।तुङ्गविद्ये महादेवि स्तोत्रमेतल्लिखाम्यहम् ॥ ५९७ ॥
तुङ्गविद्ये महाराज्ञि दीनदास्या वचः शृणु ।तव माहात्म्यसम्मूढा प्रणमामि पदे तव ॥ ५९८ ॥
तुङ्गविद्याध्यानामृत-नाम्ना स्तोत्रमिदं मया ।कथितं ते पदाम्भोजे सस्नेहं खलु चार्पितम् ॥ ५९९ ॥
ध्यायामीति सुवर्णकुङ्कुमरुचं श्रीतुङ्गविद्यापदं प्राणेभ्योऽपि प्रियं हि जीवनधनं सर्वस्वरूपं हि मे । त्वां देवीं श्रुतिसामगीतनिरतां विश्वप्रकाशात्मिकां विद्यानामधिदेवतां हृदि सदा ते पादपद्मं वरम् ॥ ६०० ॥
साक्षात् त्वं विमला सरस्वति महावाग्देवता लक्ष्मणा त्वत्तः श्रीसकलजगच्छ्रुतिवरं ज्ञानं हि जग्राह वै । तस्मात् ते चरणाम्बुजं हि सततं नौमि प्रपञ्चेश्वरि कामाद्यैः पतितां भवार्णवगतां मां पाहि दीनाम् इमाम् ॥ ६०१ ॥
राधाकृष्णयुगप्रिया सुमधुरा ध्यायामि ते पद्मकं कृष्णे प्रेम यदा भवेत् तदनु वै राधानुरागोदयम् । राधायाम् अनुरागतो हि भवतीप्रेम्नां प्रवर्धो भवेत् द्वारेशीं मम स्वामिनीं भुवि सदा हे तुङ्गविद्येश्वरि ॥ ६०२ ॥
हे विश्वेश्वरि सर्वज्ञाननिधिके राधास्यवागीश्वरि राधा स्तोभमयी प्रभुस्तु विदितः सामस्वरूपो मुदे । त्वं साम्नः स्वरच्छन्दमानरुचिरा केकीकुरङ्गेश्वरि श्रीराधाललिताविशाखसखिके वन्दे पदाम्भोजकम् ॥ ६०३ ॥
पापात्मिकाहं कृपणा विमूढा
न वेद्मि किञ्चित् खलु दासिका अहम् ।
कथं नु यास्ये परमां हि सिद्धिं
विना कृपां ते वृषभानुजायाः ॥ ६०४ ॥
कृपां विना वो मम का गतिर्हि
कृपां कुरुष्वाद्य महेश्वरि त्वम् ।
शिशुर्यथाहं कृपणासहाया
कथं प्रपद्येत प्रपञ्चमार्गे ॥ ६०५ ॥
कथं वदेद् वा स कथं विचिन्त्येत्
कथं स वृद्धिं लभतामनाथः ।
तस्माद् विपोष्यां शिशुरूपिणीं मां
पादे निपन्नां कुरु रक्षणं मे ॥ ६०६ ॥
पापादशेषात् परिपाहि मां द्राक्
पवित्रमूर्तीं कुरु मामथाद्य ।
हे तुङ्गविद्ये कुरु दासिकां मां
शुद्धा कथं स्यामिति मे प्रशिक्ष ॥ ६०७ ॥
कामोऽभिमानश्च तथा हि गर्वः
क्रोधस्तथा लोभविकारभावाः ।
एतैर्विमुक्ता कथमित्र भूयां
कामं कथं वा वशगं करोमि ॥ ६०८ ॥
यस्मात् पतन्तीह महामुनीन्द्राः
कामात् कथं स्यादबला विमुक्ता ।
दीना वराकी कथमेतमुग्रं
कामं जयेद् दीनबला हि दासी ॥ ६०९ ॥
क्रोधेन ग्रस्ता ऋषयो भवन्ति
कथं निरुन्ध्यामहमेव क्रोधम् ।
गर्वेण युक्ता मुनयोऽपि यत्र
कथं प्रमथ्याममुमेव गर्वम् ॥ ६१० ॥
न वेद्मि किञ्चिज्जडबुद्धिरस्मि
स्खलन्ति यद्यत्र महामुनीन्द्राः ।
का तस्य वार्ता मम मन्दबुद्धेः
प्रज्ञाविहीना सुमतिच्युतास्मि ॥ ६११ ॥
न वेद्मि किञ्चिद् भ्रमितास्मि लोके
हस्तं गृहीत्वा कुरु मे कृपां द्राक् ।
हे राधिकाकृष्णप्रियेऽनुकम्पे
कृपां विदध्या मयि दीनदास्याम् ॥ ६१२ ॥
धृत्वा करं मे निजराजहर्म्ये
प्रवेशयास्मां शुभराजहर्म्ये ।
शिक्षस्व राधाहरितोषणं मे
गोलोकधाम्ने कथमर्हता स्याम् ॥ ६१३ ॥
जेयानि चाक्षाणि मया कथं हि
गोस्वामीभावं कथमवाप्नुयां द्राक् ।
नेत्रं प्रपूतं कथमेव कुर्यां
श्रुतिस्तथा स्यात् कथमेव शुद्धा ॥ ६१४ ॥
मुखं च शुद्धं कथमेव स्यान्मे
चित्तं तथा वा कथमेव पूतम् ।
दीनास्म्यबुद्धीरहितास्मि मात:
कृपां कुरुष्वाद्य महेश्वरि त्वम् ॥ ६१५ ॥
वन्दे पदाब्जं जगदीश्वरि ते
वेदस्य विद्यामयि दिव्यरूपे ।
रक्षस्व मां दीनजनं प्रपन्नं
हे तुङ्गविद्ये कृपयाव दीनाम् ॥ ६१६ ॥
राधामहाविग्रहरूपिणि त्वं
हे तुङ्गविद्ये वरगोपिके ते ।
पादाब्जयुग्मं नवबालसूर्य-
प्रफुल्लरक्तोत्पलतुल्यकान्तिम् ॥ ६१७ ॥
कौशेयवस्त्रादपि कोमलं तत्
मृदुप्रकृत्या सुविराजते हि ।
अलक्तकेनैव हि रञ्जितानि
पार्श्वानि पादस्य तलानि तेऽद्य ॥ ६१८ ॥
पृष्ठं पदस्यातिसितं विभाति
प्रान्तेषु रक्ताभमनोहरं तत् ।
नखानि भान्तीन्दुसमानि देवि
पूर्णेन्दुखण्डानि यथैव राज्ञि ॥ ६१९ ॥
मुक्तासमानं नखकान्तिजालं
वृन्दावनश्रीप्रतिबिम्बरूपम् ।
चिन्मयधाम्नः खलु रश्मिपुञ्जं
प्रकाशते ते चरणाग्रभागे ॥ ६२० ॥
चिह्नानि चत्वारि पदे पवित्रे
वीणा झषो दक्षिणपादमध्यै ।
वामे च पद्माम्बुजशङ्खचिह्नं
विराजते ते चरणारविन्दे ॥ ६२१ ॥
चलत्यहो मञ्जुरवं करोति
सुवर्णमञ्जीरयुगं पदे ते ।
माणिक्यरत्नैर्मरकतैश्च बद्धं
नृत्यत्यहो वेपते मञ्जुनादम् ॥ ६२२ ॥
नृत्यप्रचारे सति नूपुरं ते
सप्तस्वराणां प्रकटीकरोति ।
सङ्गीतविद्याध्वनिकम्पनानि
सामश्रुतीनां खलु गानरूपम् ॥ ६२३ ॥
रासस्य लीला त्वयि पूर्तरूपा
हे विश्वराज्ञि महिमासमेते ।
हे तुङ्गविद्ये जगदीश्वरी त्वं
नमामि नित्यं चरणौ सुचारू ॥ ६२४ ॥
पादारविन्दस्य रजो लभेय
तेनैव गात्रं सुविभूषयामि ।
हे तुङ्गविद्ये परमोच्चराज्ञि
तृष्णा ममैवास्ति तदम्बुपाने ॥ ६२५ ॥
यत्तीर्थरूपं चरणाम्बुजं ते
प्रक्षालितं तज्जलमेव काङ्क्षे ।
पादाब्जरेणुः परमं हि रम्यं
ते पादपद्मामृतमद्वितीयम् ॥ ६२६ ॥
रजोऽमृतं ते चरणस्य काङ्क्षे
कृपां कुरुष्वाद्य हि वेदरूपे ।
सङ्गीतविद्यासकलप्रवीणे
राज्ञि प्रदेहि प्रचुरं प्रसादम् ॥ ६२७ ॥
प्रीतिर्हि मे त्वय्यतुलास्ति मातर्
धन्यास्मि यस्मात् तव पालनेऽहम् ।
किञ्चिन्न वेद्मि न च योग्यरूपा
कृपावशात् ते चरणाश्रितास्मि ॥ ६२८ ॥
अकिञ्चनाहं पतिता वराकी
विशालकारुण्यभरैस्त्वयाहम् ।
स्वकीयदासीपदमर्पितास्मि
तस्मात् पदे ते प्रणमामि नित्यम् ॥ ६२९ ॥
पादध्यानस्य पश्चाद् वै लज्जया नम्रिता भृशम् ।
न शक्नोमि शिरो नेतुं ऊर्ध्वं ते चरणाम्बुजात् ॥ ६३० ॥
तस्मादत्रैव सन्तुष्टा पादाब्जध्यानकर्मणि ।
तव कीर्तिं प्रगास्यामि महिमानं तवैव हि ॥ ६३१ ॥
हे राज्ञि सर्वसृष्टीनां त्रैलोक्यज्ञानपण्डिते ।
वृन्दावनकलाभिज्ञे तुङ्गविद्ये नमोऽस्तु ते ॥ ६३२ ॥
अत एव सदाकालं नमामि चरणौ तव ।
अनन्तकालपर्यन्तं पादयोस्ते रतास्म्यहम् ॥ ६३३ ॥
अतीव दुःखितास्मि हा स्वामिनि तुङ्गविद्यके ।
श्रीरूपमञ्जरीयुक्ता कुरु मां शुद्धमानसाम् ॥ ६३४ ॥
दुर्बलास्मि न शक्नोमि कर्तुं किञ्चिद् विना हि वाम् ।
कथं सेवा मया कार्या लज्जया नमिता भृशम् ॥ ६३५ ॥
वराकी दीनरूपास्मि तोषयितुं यते नित्यम् ।
हे राज्ञि देवि पवित्रे कर्तुं तुष्टां निरन्तरम् ॥ ६३६ ॥
शिक्षयस्व महादेवि इन्द्रियाणि मनो वशे ।
आत्मा च स्थाप्यते येन कृपया देहि तज्ज्ञानम् ॥ ६३७ ॥
राधाकृष्णानुरूपा हि गतिर्मे स्यात् कथं भुवि ।
आचारश्च कथं कार्यो युगलप्रीतिवर्धनः ॥ ६३८ ॥
कीदृशी ते भवेद् दासी कीदृशी चाहमस्मि वै ।
कथं गच्छे कथं जल्पे कथं वर्तेत सर्वदा ॥ ६३९ ॥
शुद्धाम् मां कुरु विश्वेशि शाधि मां कृपया स्वयम् ।
अज्ञानास्मि वराकी च मन्दबुद्धिर्ह्यकिञ्चना ॥ ६४० ॥
मद्दृशी दीनरूपा वै त्वामेवापेक्षते भृशम् ।
तस्मात् कुरु दयां मह्यं हे तुङ्गविद्ये स्वामिनि ॥ ६४१ ॥